08/09/2023
जवाहरलालनेहरुविश्वविद्यालयस्य संस्कृतप्राच्यविद्याध्ययनसंस्थानेन #संस्कृतशास्त्रपरम्परायां_ललितकला:" इतिविषयमधिकृत्य #सितम्बरमासस्य ४,५,६ दिनाङ्केषु समायोजित: ' #संस्कृतसप्ताहमहोत्सव:-२०२३'' सफलतापूर्वकं सम्पन्न:। उद्घाटन-समारोहे संस्कृतभारत्या: अखिलभारतीयसङ्घटनमन्त्रिणां #श्रीदिनेशकामतवर्याणां #इंदिरागांधीराष्ट्रियकलाकेन्द्रस्य च न्यासिनां प्रो. #भरतगुप्तवर्याणां पावनसान्निध्यम् अभवत्। अन्यदिनेषु च राष्ट्रियनाट्यविद्यालयस्थकलाविद: #अजयकुमारस्य, इंदिरागांधीराष्ट्रियकलाकेन्द्रस्य प्रो. अद्वैतवादिनी कौलस्य, श्री #लालबहादुरशास्त्रीराष्ट्रियसंंस्कृतविश्वविद्यालयस्य मीमांसाविद: प्रो. #आरावमुदन:, #दिल्लीविश्वविद्यालयस्य प्रो. #दीप्ति ओमचेरी भल्लायाश्च मार्गदर्शनमभवत्। एतस्मिन्नवसरे संस्थानीयच्छात्रै: विविधसांस्कृतकार्यक्रमा: प्रस्तूय अभ्यागतानां श्रोतृणाञ्च मनो रञ्जित:। अस्मिन्नेवावसरे छात्राणां कौशलविकासाय भाषणस्पर्धा, आशुभाषणस्पर्धा, संस्कृतगीतस्पर्धाश्चापि आयोजिता:। महोत्सवस्यान्ते संस्थानस्य संकायाध्यक्षेण प्रो. सुधीरकुमारेण सर्वेषां धन्यवादज्ञापनं विधत्तम्। सम्पूर्णमहोत्सवस्य संयोजनं डा. टी. महेन्द्र: अकरोदत्रास्य सहयोगं डा. ज्योति: डा. विजेन्द्रसिंहश्चाकुरुताम्। महोत्सवोऽयं संस्थानस्य समेषां छात्राणामध्यापकानाञ्च महत्प्रयासै: साफल्यमभजत्।
JNU University of Delhi National School of Drama Indira Gandhi National Centre for the Arts Lbsnsu Delhi Central Sanskrit University Sanskritbharati Hari Ram Mishra Gopal Lal Meena