31/08/2026
🌸 विश्वसंस्कृतदिवसस्य समारोहः 🌸
संस्कृतं जयतु! संस्कृतभारती जयतु!
गत २९ अगस्त २०२६, शनिवासरे उलुबेडिया-महाविद्यालयस्य ईश्वरचन्द्र-विद्यासागर-सभागृहे संस्कृत-विभागस्य तत्त्वावधाने विश्वसंस्कृतदिवसस्य भव्यः समारोहः सोल्लासेन सम्पन्नः।
अस्मिन् कार्यक्रमे महाविद्यालयस्य शिक्षक-शिक्षिकाः, छात्राः छात्राश्च संस्कृतप्रेमिणश्च उत्साहपूर्वकं सहभागितां कृतवन्तः। कार्यक्रमे संस्कृतभाषायाः, संस्कृतसाहित्यस्य, भारतीयज्ञानपरम्परायाश्च महत्त्वं विषये विविधाः चर्चाः प्रस्तुताः।
विशेषरूपेण संस्कृतभारती-दक्षिणवङ्गस्य सहयोगेन आयोजितस्य दशदिवसीयस्य सम्भाषण-संस्कृत-प्रशिक्षणकार्यक्रमस्य सफलप्रतिभागिभ्यः प्रमाणपत्राणि वितरितानि।
तदनन्तरं संस्कृतभाषया भारतीयसंस्कृत्या च सम्बद्धानां विविधशैक्षिकसामग्रीणां चित्राणां च प्रदर्शनी अपि आयोजिता। प्रदर्शनी विद्यार्थिनां कृते ज्ञानवर्धिका आकर्षिका च अभवत्।
अस्य कार्यक्रमस्य सफलतायै योगदानं दत्तवद्भ्यः सर्वेभ्यः शिक्षक-शिक्षिकेभ्यः, छात्रेभ्यः, आयोजकेभ्यः, सहयोगिभ्यश्च संस्कृत-विभागस्य हार्दिकाः कृतज्ञताः।
“संस्कृतं सर्वस्य भूषणम्।”
“संस्कृतं पठामः, संस्कृतं वदामः, संस्कृतं प्रचारयामः।”
🙏 सर्वेभ्यः हार्दिकं धन्यवादम्।
#विश्वसंस्कृतदिवसः #संस्कृतविभागः #उलुबेडियामहाविद्यालयः #संस्कृतभारती #संस्कृतम् #संस्कृतभाषा #भारतीयज्ञानपरम्परा #संस्कृतप्रचारः #संस्कृतसंवर्धनम्